________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / तथा गोचानरायाभ्यां स्वमालाम्यं वरानने / कृतमेव ममात्यर्थं चरितार्थ तदा पुनः // तथा। रौट्रातध्यानसंयुक्त: पापात्मा पापचेष्टितः / विहितोऽहं विशालाक्षि तेन दुष्टाभिमन्धिना // तथान्यैरपि तत्काले महामोहे समोपगे / ममावि वितं भद्र वं खं बोयें महाभटैः // अकलङ्केन मुक्रत्वादनाथ व निर्भयः / इत्यं खलीकृतोऽत्यन्तं तैरहं भावशत्रुभिः // अथान्यदा ममायातो मत्कदर्थनकाम्यया / महामोहनरेन्द्रस्य ममोपे मकरध्वजः // म च स्वीयां रतिं भार्या रागकेसरिमन्त्रिणम् / पञ्चमानुषसंयुक्त तच्च तस्य कुटुम्बकम् // एतां सवा समासाद्य सामग्रौं कार्यसिद्धये / संनद्धबद्धकवचस्तदा प्राप्तो मृगेक्षणे // ततस्तुष्टो महामोहो मकरध्वजमौलनात् / सोऽयासाद्य महामोहं परं वर्षमुपागतः // ततस्तेन युतः साक्षात्संनद्धो गन्धवारण: / संपन्नोऽसौ महामोहो जातो मेऽत्यन्तबाधकः // शब्दरूपरसस्पर्शगन्धलुब्धोऽन्धमविभः / गाढं निर्नरामदोधः मंजातोऽहं ततस्तदा / गर्ताशूकरसङ्काशो विषयाशचिकर्दमे / For Private and Personal Use Only