________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 626 उपमितिभवप्रपश्चा कथा / नंष्टमेभ्यो न मनोति स्वपापभरपूरितः / क्षुद्रवितर्ककल्लोलैः केवलं परितप्यते // प्रकर्षः प्राह न ज्ञातं किमनेन तपखिना / द्यूतं हि देहिनां लोके सर्वानर्थविधायकम् // धनक्षयकर निन्द्यं कुलशीलविदूषणम् / प्रमूतिः सर्वपापानां लोके लाघवकारणम् // संक्लिष्टचेतमो मूलमविश्वासकरं परम् / पापैः प्रवर्तितं द्यूतं किमनेन न लक्षितम् // विमर्शनोदितं वत्म महामोहमहीपतेः / वराकः किं करोत्येष यो वशः सैन्यवर्तिनः // थतः // महामोहहता येऽत्र विशेषेण नराधमाः / द्यूते त एव वर्तन्ते प्राप्नुवन्ति च तत्फलम् // यावच्च कथयत्येवं विमर्शः किल चेष्टितम् / तावत्रोटितमेवोच्चेः कितवैस्तस्य मस्तकम् // प्रकर्षः प्राह ये माम महानर्थविधायकम् / रमन्ते द्यूतमत्रैव तेषामेवंविधा गतिः // तं मातुलोऽब्रवौद्भद्र सम्यक् संलक्षितं त्वया / न द्यूते रकचित्तानां सुखमत्र परत्र वा // अत्रान्तरे महारण्ये निपपात कथंचन / दृष्टिः प्रकर्षसंज्ञस्य नौलाबदलला मिनी // ततश्च तम्मुखं हस्तं कृत्वा म प्राह मातलम् / For Private and Personal Use Only