________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1062 उपमितिभवप्रपचा कथा / ततः कृतप्रणामेन तेन कोविदसूरयः / विज्ञापिता ब्रजामौति दीपयित्वा प्रयोजनम् // अथ निश्चित्य सद्भावं प्राहुः कोविदसूरयः / निरर्थकोऽयं ते क्लेशस्ततो मा गास्तदन्तिकम् // तथाहि / यावत्तस्य ममीपस्थौ महामोहपरियहो। ताववाद्यापि कर्मण्यः स तात धनवाहनः / / यतः / श्रागच्छन्ति तयोः पार्श्व नियमात्मागरादयः / तेषामाश्रयभूतौ तौ सर्वेषां मूलनायकौ // वशे च वर्तमानस्य तस्य तेषां दुरात्मनाम् / कोपदेशाः क वा धर्मः क्व मदागममौसकः // बधिरे कर्णजापोऽयमन्धे नृत्तप्रदर्शनम् / ऊषरे बीजनिक्षेपस्तस्य या धर्मदेशना // - यतः / अत्यल्पस्तस्थ संस्कारस्तावकोनेन जायते / वचनेन क्षतिगुरु स्वाध्यायस्य भवादृशाम् // अन्यच्च / बोधितो बोधितो भूयः म शेते भावनिद्रया / यावदेतो ममोपस्थौ महामोहपरियहौ / तदलं ते गतेनार्य घनवाहनमन्निधौ / खकार्यहानिदे कृत्ये न वर्तन्ते विचक्षणाः // For Private and Personal Use Only