________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1050 उपमितिभवप्रपञ्चा कथा / देवेन माधैं स्वामिन्याः संयोगो घटितो ह्ययम् // तथाहि। रूपं वयः कुलं शीलं लावण्यं च परस्परम् / दम्पत्योः प्रेममहितमनुरूपं सुदुर्लभम् // एतच्च युवयोः मर्व संपन्नं पुण्यकर्मणा / केवलं वर्धनोयोऽयं प्रेमाबन्धो मनोहरः // ततः स बालिगेनोक्तः शठात्मा दासदारकः / यथा कथं स वर्धेत स प्राह प्रियसेवनात् // बालिश: प्राह किं तस्याः प्रियं मङ्ग निवेद्यताम् / सङ्गेनोक्तं यथा देव प्रियोऽस्या मधुरो ध्वनिः / बालिशः प्राह यद्येवं ततस्तस्य निषेवणम् / अश्रान्तः कारयाम्येनां माधु साधु निवेदितम् // महाप्रमाद इत्येवं ब्रुवाणः स च दारकः / स्नेहान्निवेशितस्तेन हृदये बालिगेन भोः // ततश्च काकलौगौतवेणुवीणाकलस्वनम् / तां श्रुतिं श्रावयन्नेष बालिशो हदि मोदते चिन्तयति च / अहो सुखमहो स्वर्गस्तथाहो मम धन्यता / यस्येदृशौ श्रुतिर्भार्या सततानन्ददायिका // ततश्च। हृदये दारकं कृत्वा तं सङ्गं स्नेहनिर्भरः। श्रते: म लालनं कुर्वन्नास्ते नित्यं कलस्वनः / For Private and Personal Use Only