________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , सप्तमः प्रस्तावः। 1051 त्यतं तेनान्यकर्तव्यं धर्मादरेण मंस्थितः / षिगप्रायतया जातो हास्यश्चामौ विवे किनाम् // दूतश्च कोविदेनापि प्रनितोऽयं सदागमः / मह्यमेषा हिता भार्या किं वा नेति निवेद्यताम् // ततः सदागमेनोक्तं न हिता ते नरोत्तम / ससङ्गेयं श्रुतिर्भार्या तत्राकर्णय कारणम् // दयं हि प्रहिता पूर्व रागकेमरिमन्त्रिणा / ददं जगद्दशौकत पञ्चमानुषमध्यगा // दूतश्च / म कर्मपरिणामस्य धातव्यो रागकेसरौ / प्रसिद्धश्चरटो लोके तस्थामात्यो विमेषतः // म कर्मपरिणामाख्यः सार्वभौमो नराधिपः / शुभाशुभकरत्वेन लोके विश्वास्यतां गतः // एवं च स्थिते / इयं चरटकन्येति मत्वा नाङ्गोकरिष्यति / अयं जनस्ततस्तेन रागकेमरिमन्त्रिणा // दास दत्त्वाग्रतः स्वीयं मङ्ग सम्बन्धकारिणम् / महाराजसतात्वेन ख्यापितेयं श्रुतिः पुरा // तत्कर्मपरिणामोऽस्था जनकस्तेन गौयते / सुतेयं परमार्थेन रागकेसरिमन्त्रिणः // जगतो वञ्चकत्वेन या च तेन दुरात्मना / प्रयुक्नेयं कुतस्तस्या हितत्वं हन्त विद्यते // For Private and Personal Use Only