________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / ततोऽरुण प्रभाभिन्ने पूर्व गगनमण्डले / जाते रतभ्रसङ्घाते गतच्छाये निशाकरे // तस्करेषु निलौनेषु लपत्सु ककवाकुषु / कौशिकेषु च मूकेषु कुररेषु विराविषु / वकर्मधर्मव्यापारच्छलेनेव कृतादरम् / सर्वं तदा जगन्नातमारोग्यार्थं नमाश्रियः / / अथोदिते सहस्रांशौ प्रबुद्धे कमलाकरे / सङ्गमे चक्रवाकानां जने धर्मपरायणे // विमर्शः प्राह ते वत्स महदत्र कुतूहलम् / भवचक्रं च विस्तीर्ण नानावृत्तान्तमङ्कुलम् // स्तोककालावधिः शेषो द्रष्टव्यं बहु तिष्ठति / न शक्यते ततः कर्तुमेकैकस्थानवौक्षणम् // तदिदं वचनं तात मामकीनं समाचर / अकालहीनं ते येन पूर्यते तत्कुलहलम् // य एष दृश्यते तङ्गः शुभ्रः स्फटिकनिर्मलः / महाप्रभावो विस्तीर्ण विवेको नाम पर्वतः / प्रारूढदृश्यते भद्र समस्तमिह पर्वते / इदं विविधवृत्तान्तं भवचक्रं महापुरम् // तदत्रारुह्यतां तात निपुणं च विलोक्यताम् / यच्च न ज्ञायते सम्यक् पृच्छतामेष तज्जनः / यतोऽत्राखिलवृत्तान्ते विदिते नगरे तव / पश्चादपि न जायेत चित्तौत्सुक्यं कदाचन // For Private and Personal Use Only