________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 623 ततस्ते प्राप्नुवन्त्येव वेश्याव्यसननाटिताः / एवंविधानि दुःखानि वत्स किं वात्र कौतुकम् // चलचित्ताः प्रकृत्यैव कुलजा अपि योषितः / चटुलत्वेन वेश्यानां तात कः प्रश्नगोचरः / / कुलौना अपि भो नार्यः सर्वमायाकरण्डिकाः / को मायां जौर्णवेश्यानां वत्म पृच्छेत्मकर्णकः / / शेषाभिरपि नारीभिः स्नेहे दत्तो जलाञ्जलिः / यस्यास्था गणिकास्नेहे म मूर्खः पट्टबद्धकः // अन्यस्मै दत्तरंकेता वौचतेऽन्यं ग्टहे परः / अन्यश्चित्ते परः पार्श्व गणिकानामहो नरः // कुर्वन्ति चाटुकर्माणि यावत्स्वार्थः प्रपूर्यते / च्युतमारं विमुञ्चन्ति निर्लादालतकं यथा // पुरापघसरप्राया गणिकाः परिकीर्तिताः / ये ताखपि च ग्रध्यन्ति ते श्वानो न मनुष्यकाः // तस्मादेवंविधं नूनमन्येषामपि देहिनाम् / चरितं यः कृतं पापैर्गणि काव्यसने मनः // प्रकर्षणोतं / सत्यमेतन्नास्त्यत्र सन्देहः / ततोऽतिवाहितस्ताभ्यां क्वचिद्देवमन्दिरे रात्रिभेषः // अत्रान्तरे गलत्तारा कुषितध्वान्त केशिका / नभःौः पाण्डरा जाता रोगाघातेव बालिका || श्रादधानः श्रियं तस्या निजवीर्येण भास्करः / कारुण्यादिव संजातः सप्रभावो भिषग्वरः / For Private and Personal Use Only