________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / तदहं क्षणमप्येक नात्र भोः स्थातमुत्महे / तुभ्यं शपे शिरोऽनेन गन्धेन मम दुय्यति // प्रकर्षणोदितं माम सत्यमेतन संशयः / ममापि नासिका व्याप्ता गन्धेनोत्पादितारतिः // तत्तर्णमपमरावः / ततोऽपस्तौ विमर्शप्रकर्षा स्थितौ सविलोके दूरदेशे। अत्रान्तरे संप्राप्तो रमणः। तदनु चाकृष्टबाण: ममागत एव भयमहितो मकरध्वजः। दृष्टा रमणेन कुन्दकलिका / ततः प्रत्युनौवित इव सुधासेकसिक्त व संप्राप्तरत्ननिधान व महाराज्येऽभिषिक्त व गतः परमहर्ष रमणः / अत्रान्तरे निर्गता ग्रहान्मदनमञ्जरी / दृष्टस्तयासौ लक्षिता च सकिञ्चनता। ततः संज्ञिता कुन्दकलिका / निरीक्षितः कुन्दकलिकया रमणः / संजातः प्रहष्टतरः। अत्रान्तरे विज्ञायावसरमाकान्तमापूर्य विमुक्को मकरध्वजेन शिलीमुखः। ताडितस्तेन रमणः / ग्टहीतानेन कण्ठे कुन्दकलिका। प्रविष्टोऽभ्यन्तरे। निकटौभृता मदनमञ्जरौ। समर्पितं रूपकादि सर्वस्खं / हौतमनया / कृतोऽसौ यथाजातः / ततो ऽभिहितं मदनमञ्जर्या / वत्स सुन्दरमनुष्ठितं भवता यदिहागतो ऽसि / समुत्मका त्वयि वत्मा कुन्दकलिका। किं तु नृपतेः सुतश्चण्डो नाम राजपुत्रः माम्प्रतमिहाजिगमिषुर्वर्तते / तत्रावलौनो भवत वत्सः / एतच्चाकर्णयतो रमणस्य कृतो भयेन शरीरेऽनुप्रवेशः / अत्रान्तरे समागतो द्वारि चण्डः / समुल्लसितो बहुलकलकलः / विजृम्भितो भयः / प्रकम्पितो रमण: / प्रविष्टश्चण्डः / दृष्टोऽनेन रमणः / ग्टहीतः क्रोधेन चण्डः / समाकृष्टासिपुत्रिका / समाहतो For Private and Personal Use Only