________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तथा। परियहस्य वौर्यण सर्वथा न्यनचेतसः / न ममेच्छा तदा पूर्ण प्राप्तैः सर्वधनैरपि // ततो मां तादृशं मत्वा दूरीभूतः मदागमः / लब्धात्मलाभौ संतुष्टौ महामोहपरिग्रहौ // अथान्यदा समाथातः मोऽकलङ्कयुतः पुनः / सुसाधुभिः समाकीर्णः सूरिः कोविदनामकः // ततोऽकलङ्कदाक्षिण्याइतोऽहं तस्य वन्दकः / तदाकलङ्कसूरिश्च वन्दितो मुनिभियुतः // दूतश्च / ज्ञानालोकेन विज्ञातं तेन कोविदसूरिणा / मदीयं चरितं लोकादकलङ्कन चाखिलम् // ततः प्रोकोऽकलङ्केन सूरिर्नाथ निवेद्यताम् / सदागमस्य माहात्म्यं धनवाहनभूभुजे // तथा दुर्जनसङ्गे च ये दोषाः सन्ति देहिमाम् / निवेदनौयास्तेऽप्यस्मै विशेषं येन बुध्यते // ततः सदागमे भको दुष्टसम्पर्कवर्जितः / इहामुत्र च येनायं सुखसन्दोहमानते // कोविदमूरिणभिहित। एवं क्रियते / ममाकर्पयतु महाराजः। ततोऽकलकोपरोधेन श्रवणय स्थितोऽहं सूरेः प्रकृतरः। मूरिणाभिहितं / अस्ति दमातलं नाम नगरं / तत्र स्खमलनिचयो नाम राजा / For Private and Personal Use Only