________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / दूतचोपरतस्तातः स जौमूतो नरेश्वरः। अहं च स्थापितो राज्ये बन्धमन्त्रिमहत्तमैः // प्रणताः सर्वसामन्ता रिपवो भृत्यतां गताः / ततः परिणतं राज्यं भूरिभृतिमनोहरम् // स च पुण्योदयस्तस्य मम राज्यस्य कारणम् / महामोहयुतेनासौ किं तु नो लचितो मया // दूतश्च / शरीरं विषया राज्यं विविधाश्च विभूतयः / यच्च पौगलिकं किंचिच्चित्ताबन्धविधायकम् // सदागमस्तदाचष्टे यथेदं क्षणभङ्गुरम् / दुःखात्मकं मलक्लिन निःस्वभाव बहिश्चरम् // तदत्र मूछी मा का?र्मा का?र्घनवाहन / श्रात्मा ते ज्ञानमौर्यदर्शनानन्दपूरितः // ततस्तत्रैव युक्तस्ते चित्ताबन्धो नरोत्तम / येन त्वं नितिं यासि सतताहादसुन्दराम् // महामोहस्तु मे सर्वं तद्राज्यं ताश्व सम्पदः / गात्रं शब्दादिभोगांश्च यच्चान्यदपि तादृशम् // स्थिरं सुखात्मकं चारु निर्मलं हितमुत्तमम् / इत्येवं कथयत्युबैरुपदेशं च यच्छति // यदुत / नास्ति जीवो न वा देवो न मोक्षो न पुनर्भवः / न पुण्यपापे मद्भूते भूतमात्रमिदं जगत् // For Private and Personal Use Only