________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1045 समुदायात्मको वत्सा वर्तऽहं भो भवादृयाम् / अतो मया हतः सर्वैर्युभाभिहत एव सः // तथा। गते मयि गताः सर्वे यूयं घातार्थमर्थतः / अतो गच्छाम्यहं वत्मा यूयमत्रैव तिष्ठत // किंतु। प्रतिजागरणीयोऽहं गतस्तत्रान्तरान्तरा। मर्वेरेव यथायोगं भवद्भिः स्वामिवत्सलः // अन्यच्च / योऽयं परियहो वत्मा वल्लभो मे विशेषतः / रागकेसरिपुत्रस्य मागरस्य वयस्यकः // नाहमेनं परित्यज्य तत्र गन्तुं समुत्महे / अयमेव महावीर्यः महायो मम सुन्दरः // ततश्च / अहमेकं रहौत्वेनं तत्महायं परिग्रहम् / गच्छामि त्वरितं तत्र सदागमजिघांसया // ततो विज्ञाय निर्बन्ध सर्वैः प्रपातमस्तकैः / एवं विधीयतां देव तद्वचः परिपूरितम् // ततः समागतौ भने महामोहपरिग्रहो। मत्समीपं कृतोत्साहौ मया चेमौ विलोकितौ / / ततो मे स्नेहसम्बन्धस्ताभ्यां साधे सुनिर्भरः / अनाद्यभ्यासयोगेन संजातस्तारलोचने // For Private and Personal Use Only