________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1036 उपमितिभवप्रपञ्चा कथा / तल्लेण्यापरिणामेन क्लेशनिचिनक्षमम् / विशुद्धवाध्यवमायेषु गच्छदेवोपपद्यते / किं च / न केवलं शिवस्योच्चैश्चित्तमेवेह कारणम् / भवस्थापि तदेवेति मुनयः संप्रचक्षते // यतोऽपवरको योऽयं सच्चेदं गर्भगेहकम् / यच्च वानरकं भद्र तत्सर्व प्राणिनां समम् // ततश्च / यास्ता भो वर्णिताः पूर्व पदिकास्तत्र दर्दरे। तद्वानरं तदारूढं विचित्रभवकारणम् // यस्यां यस्यां तदारुह्य करोत्युत्प्लवनं किल / शीघ्रं तत्पदिकास्थेषु हट्टे नयति देहिनः // मयोनं / वयस्य कोऽस्थ भाषितस्थार्थः / अकलङ्केनीतं / आकर्णय। यल्लेण्याध्यवसायेषु म्रियन्ते किल देहिनः / श्रारूढचित्तास्तादृचु जायन्ते ते भवान्तरे // अमङ्ख्याध्यवसायेषु तच्चित्तं वर्तमानकम् / विचित्रयोनिरूपस्य भवस्थास्य विधायकम् // सदोषं भवहेतस्ते ममान्येषां च देहिनाम् / निर्दोष मोक्षहेतस्ते चित्तं भी घनवाहन // रक्षेदं चित्तमद्रनं तस्मादन्तर्धनं परम् / धर्मोऽधर्मः सुखं दुःखं यत्र सर्व प्रतिष्ठितम् // For Private and Personal Use Only