________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिमवप्रपञ्चा कथा / अन्यच्च / तत्र घोषित्रितयसंपादितपदिकामार्गऽनुक्षणमारोहतस्तस्य लगिव्यति मन्दः सुखकारितया शीतः सन्तापहारितया सुरभिः सद्भतगुणगणकमलवनमकरन्दरेणुधारितया धर्मध्यानाभिधान: पवनः / तत्सम्बन्धे भविष्यति तत्सततं प्रमुदितं / इतश्च भौतमिव तेभ्योऽधस्तनेभ्यो मूषकमार्जारकोलोन्दुरवृश्चिकककलासग्रहकोकिलिकादिभ्यो नानाविधोपद्रवेभ्यः समुद्विममिव तेन विततेन बहलान्धकारेण प्राधनारौत्रयविरचितं पदिकामार्गमपहाय तत्र पश्चिमयोषित्त्रयविनिर्मिते भयविरहिते सततप्रकाशे पदिकामार्ग निलौनमास्ते तस्य वानरलौवरूपस्य सम्बन्धि वानरयूथं / ततस्तत्रारोहतस्तस्य तदभेषमधिष्ठितं प्रशमदममन्तोषस्यमसदोधादिनामकवानरपरिवारेण विशुद्धधर्ममहावानरेण समन्वितं पतिश्रद्धासुखामिका विविदिषाविज्ञप्तिस्मतिबुद्धिधारणामेधाचान्तिनिःस्पृहतादिसंज्ञा भिवरवानरोभिः सङ्कुलं धैर्यवीयौदार्यगाम्भीर्यशौण्डौर्य ज्ञानदर्शनतपःसत्यवैराग्याकिञ्चन्यमार्दवार्जवब्रह्मशौचादिमामकैर्वरवानरलौवरूपैराविर्भविष्यति किंचित्कदाचित्कस्यांचित्पदिकायां। तच तस्य भवदीयवानरलौवरूपस्य शरीरं जीवितं सर्वखं महजमतिहितकरणमौलं वर्तते / किं च / तदानरयूथमपि स्थिर खरूपेण दिनकरभाखरं वर्णनाक्षादहेतुर्जगतो निरभिलाषुकं तेषु गवाक्षदारस्थितेषु सहकारामरूपतया कल्पितेषु विषयवृक्षेषु विगतस्पहं तत्रार्थनिचयसम्पत्फलकुसुमरजःकचवरलोठने / ततस्तेनात्मीयवानरयूथेन सह मौलितं तत्तावकं चित्तवानरलौवमत्यन्तप्रमुदितं शौनं यास्यत्युपर्युपरिपदिकासु यावत्पर्यन्तनारीविरचितपदिकामार्ग। For Private and Personal Use Only