________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। कथं वायुकवेत्तारो भतन्तीह भवादृशाः // मयापौदं ततो ज्ञातं गुरुभिश्च समर्थितम् / अनिष्ठितभवे हेतुर्विपर्यासादिचक्रकम् // अत एव परित्याज्यो विपर्यासो विवेकिना / तदुच्छेदे प्रलीयन्ने निर्मूलत्वेन शेषकाः // अयमेव विवेकोऽत्र तत्त्वज्ञानमिदं मतम् / अयं निरास्त्रवो धर्मी यद्विपर्यासवर्जनम् // अविपर्यस्तविज्ञातुः पुरुषस्थाप्रमादिनः / मनोविकारजालं हि खस्मा भिन्न प्रकाश्यते // ततो विविक्रमात्मानं सदानन्दं प्रपश्यतः / नास्य संजायते द्वेषो दुःखे नापि सुखे स्पसा // निरभिष्वङ्गचित्तोऽसौ ततः कर्माणमञ्चयम् / विषयनेहमुतत्वान्न विधत्ते कदाचन // ततोऽसौ बीजविरहानिःस्पृहत्वाद्भवान्तरम् / मुक्रवान्नारभेतातश्चक्रकं विनिवर्तते // एवं च स्थिते / यत्कर्मबन्धनं प्रोनं यच्चेदं भवचक्रकम् / अनयोर्या विजानाति प्रवर्तन निवर्तने // स किं शरीरे भोगेषु धने वा भवभाविनि / अन्यत्र वा पदार्थ भो रागं कुर्यात्कदाचन // यस मांसारिके कुर्यात्पदार्थ चित्तनिईतिम् / नाद्यापि तत्त्वतो ज्ञातं तेनेदं चक्रकदयम् // For Private and Personal Use Only