________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1026 दितमाकोन्यदपि चक्रकमभ्यूहितं / तद्युक्तमयुक्त वाकर्णयतु भगवान् / मुनिनोक। निवेदयतु भद्रः / श्रकलङ्केनोकं / चित्तमेवं द्विधा तावट्रव्यतो भावतस्तथा / श्राद्यं पर्याप्तियुकात्मा ग्टहीतं पुद्गलात्मकम् // तत्र प्रयुक्तो जीवस्तु भावचित्तं निगद्यते / तत्कार्मणशरीरस्थं तेन भिन्न निवेद्यते // तचित्तं नियमाजीवो जीवश्चित्तं न वा भवेत् / यतः केवलिनो जौवा भावचित्तविवर्जिताः // एवं च स्थिते / मिथ्याज्ञानविपर्यामानौवो रागादिसंततः / सततं दुःखरूपेषु सुखबुद्या प्रवर्तते // ततः कर्माणुसङ्घातमादत्ते स्नेहतन्तुभिः / ततो जन्मान्तरारम्भ विधत्ते तदशादयम् // पुनस्तत्र विपर्यासः पुना रागादिमन्ततिः / पुनश्च विषयाकांक्षा पुनस्ते स्नेहतन्तवः / पुनश्च कर्मग्रहणं पुनर्जन्मसमुद्भवः / पुनस्तत्र विपर्यासः पुना रागादिकः क्रमः // एवं यावदविच्छिन्नं विपर्यासादिचक्रकम् / जीवस्य वर्तते तावदनिष्टा भवपद्धतिः // इदमभ्यूहितं नाथ मया चक्रकमञ्जसा / युक्तमेतदयुकं वा यूयं विज्ञातुमर्हथ // मुनिनोकं महाभाग युक्रमेतन संशयः / For Private and Personal Use Only