________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमिविभवप्रपश्चा कथा / संक्लिष्टवासनाध्यानाज्जनयन्ति सुदारुणम् // इतरथा / संक्लिष्टवासनोन्मुक्त रूढे तव शरीरके / निर्बाधे सततानन्दे तदिच्छैव न जायते // तदेवं मंस्थिते चित्त हित्वा सर्वे बहिर्भमम् / खरूपे सततं तिष्ठ लोनं हन्त निरातरम् // एवं च शिक्षयित्वेदं चित्तं सम्यग्विधानतः / अस्यैव रक्षणोद्युको भविष्यामि समाहितः // तथानुशिष्टमप्येतञ्चलत्येव दुरात्मकम् / यत्नानिराकरिष्यामि बहिर्धावत्युनःपुनः // कषायनोकषायाद्या ये चोपद्रवकारिणः / अस्य तानपि निःशेषान् हनिष्याम्यप्रमादतः // विद्योदयेन ध्यानेन प्रतिपक्षनिषेवया / यास्यन्ति प्रलयं सर्वे पूर्ण रागाद्युपद्रवाः // ततस्तेषु प्रलोनेषु भविष्यन्ति न बाधकाः / परोषहोपसर्गाद्या बहि.स्थास्तदुपद्रवाः / / श्रात्मारामं ततो भूत्वा मञ्चित्तमबहिश्चरम् / रागाधुपद्रवैर्मुकं मोक्षायैव घटिय्यते // एवं परिकलय्याहं हृदये सुविनिश्चितः / तदेव कुर्वन्ननिशमेष तिष्ठामि माम्प्रतम् // अकलङ्केनोकं / माधु भदन्त माधु मम्यग् बुद्धं भदन्तेन गुरुवचनं / सम्यक् चारधं तदाचरणं / मयापोदं चक्रकं भगवनिवे For Private and Personal Use Only