________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1024 उपमितिभवप्रयचा कथा / तस्य शोषमुपयास्यत्यमौ भोगखेहसंपादितः शरीराज़्भावः / ततः शुष्कशरीरात्परिशटिष्यति प्रतिक्षणं तद्रजो रोक्ष्यन्ति क्षतानि अपयास्यति जर्जरता न भविष्यति कृष्णता विनंक्ष्यति रकीभावः प्राविर्भविष्यति धवलता संपत्स्यते शरीरस्थैर्य संजनिय्यते दर्शनौयता। ततो न प्रभविष्यन्ति ते प्रागपवर्णितास्तत्रापि गर्भग्रहके वर्तमानस्य तस्योपद्रवविशेषाः / किं च तेऽपि मार्जारमूषककोलोन्दुरादयस्तस्य वानरलौवरूपस्योपद्रवकारिणः समस्तास्तेनैवाप्रमादनामकेन वज्रदण्डेन भवता चर्णनीयाः। ततस्तेषु संचूर्णितेषु तदर्भग्टहकमार्गसञ्चरिष्ण वानरलौवरूपं निर्बाधं भविष्यति / तदयं भद्र तस्य संरक्षणोपायः / मयोकं / भदन्त तत्विं पुनस्तेनेत्थं संरक्षितेन मम सेत्स्यति प्रयोजनं। भगवताभिहितं। ननु भद्र यद्भवतोऽभिप्रेतं शिवालयमठगमनं तस्यैतदेव चित्तवानरलौवरूपं सुसंरक्षितमुपायभूतं वर्तते // एतद्धि रक्षितं सम्यक् संभवत्येव कारणम् / निर्बाधं गमनस्योच्चैः पुरुषस्य शिवालये // ततश्चेत्तत्र ते भद्र विद्यते गमने मतिः / अस्य संरक्षणेऽप्येवं ततो यत्नं समाचर // किं च / चक्रकं बहुकालौनं वर्तते भद्र दुस्तरम् / अस्य वानरलौवस्य यदिदं ते मयोदितम् // तथाहि। तत्तैरुपद्रवैर्गादं पीडितं मूषकादिभिः / For Private and Personal Use Only