________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1.25 वेदनाविहलं मोहादानकेषु प्रवर्तते // ततश्च / गुण्ड्य ते रजसा भूयो भिद्यते स्थन्दबिन्दुभिः। ततः क्षतानि जायन्ते बाध्यते मूषिकादिभिः / ततस्तद्भक्षणासता वर्धन्ते मूषिकादयः / भूयश्च बाध्यमानं तैरामकेम्वेव धावति // पुनर्गुण्डनमेवास्य स्नेहेन पुनरार्द्रता / पुनश्च चतसम्पत्तिः पुनः सर्वेऽप्युपद्रवाः / / तदेवं चक्रके भद्र गतमेतदनिष्ठिते / न मुक्का तावकौं रक्षा निर्बाधं हन्न जायते // ततो योऽयं मया प्रोको हेतुः संरक्षणे वरः / स एव भवता नित्यमनुष्ठेयो नरोत्तम // ततो ग्टहीतभावार्थस्तदाहं पर्यचिन्तयम् / इदं मह्यं भदन्तेन प्रपञ्चेन निवेदितम् // यदुत / रागाद्युपद्रुतं चित्तं विषयेषु प्रवर्तते / तेषु चास्य प्रवृत्तस्य वर्धते कर्मसञ्चयः // अङ्गाङ्गोभावमाधत्ते मा भोगस्नेहवासना / ततः संमारसंस्काराः संजायन्ते क्षतोपमाः // ततोऽत्र प्रभवन्त्येव सर्वे रागाद्युपद्रवाः / मूषकादिसमास्ते च विवर्धन्ते प्रतिक्षणम् // भूयश्च प्रेर्यमाणं तैर्विषयेष्वेव धावति / 12) For Private and Personal Use Only