________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1022 उपमितिभवप्रपञ्चा कथा / क्रूरमार्जारौभिः विलुप्यते रागद्देषनामकाभ्यां भौषणकोलोन्दुराभ्यां ग्रस्थते महामोहसंज्ञेनातिरौद्रमार्जारेण उपताप्यते परोषहोपमर्गाकैः सततं चोठयद्भिर्देशमशकैः विहलौक्रियते दुष्टाभिसन्धिवितर्काख्यैर्वज्रतुण्डेर्भक्षयद्भिर्मत्कुणैः उपद्रूयतेऽलोकचिन्तासंज्ञाभिBहकोकिलिकाभिः अभिभूयते दारुणाकारैः प्रमादकृकलामः तुद्यतेऽनवरतमविरतिजाम्बालनामकेन षट्पदिकाजालेन अन्धीक्रियते मिथ्यादर्शनसंज्ञेनातिघोरेण तमसा / तदेवमे ते भद्र तत्र गर्भग्रहके सततस्थायिनोऽस्य वराकस्योपट्रव विशेषाः / तदिदमेवमादिभिरुपद्रवरुपद्रुतं चित्ताभिधानं वानरलौवरूपं वेदनाभरनिःसहतया निपतति रौद्रध्यानाभिधाने सज्वलितखादिराङ्गारकुण्डे क्वचित्युनः प्रविशत्यनेककुविकल्पाख्यलतातन्तुजालावन(मुखे भौषणे गाढमार्तध्यानामिधाने महाबिले। तदिदमप्रमत्तेन भवता सततं रक्षणीयं / मयोकं / भदन्त कः पुनरस्य रक्षणोपायः / गुरुराह / भद्र थे ते विद्यन्ते तत्रापवरके पञ्च गवाक्षास्तेषां द्वारेषु विषयनामानः पञ्चैव विषवृक्षा विद्यन्ते / ते चातिदारुणा: स्वरूपेषा यतस्ते नानापौदं वानरलौवरूपं विलयन्ति गन्धेनापि चूर्णयन्ति दर्शनेनापि तरलयन्ति स्मरणेनापि मारयन्ति स्पर्शनेनास्वादनेन च पुनर्यदिदं निपातयन्ति तत्र किमाश्चर्य / ते चास्थामीभिरुपद्रवरुपद्रुतस्य विकलतया सहकारामका इति प्रतिभासन्ते। ततो निर्गच्छति तदभिमुखं तैर्गवाक्षकैर्गाढाभिलाषेण रज्यते सुन्दराणोति बुड्या केषु चित्तत्फलेषु विद्येष्टि न सुन्दराणौति बुद्ध्या कानिचित्तत्फलानि बंधमौति लौल्यातिरेकेणानवरतं तच्छाखान्तरेषु For Private and Personal Use Only