________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1021 मुनिनोक्र यदीच्छा ते मठे गन्तुं नरोत्तम / स्टहाण मामिकां दीक्षां ततोऽस्य प्रापिकामरम् // मयोक्तं दौयतां नाथ मा विलम्बो विधीयताम् / ततो दत्ता ममानेन दौफेयं पारमेश्वरी // उपदिष्टं च कर्तव्यं मठप्रापणकारणम् / अहं तदेव कुर्वाणो भद्र तिष्ठामि साम्प्रतम् // प्रकलङ्केनोक्तं / कौदृशं नाथ कर्तव्यं गुरुणा ते निवेदितम् / यहलेन मठे तत्र भगवगन्तुमिच्छसि // मुनिनोक्र। आकर्णय / अभिहितोऽहं भगवता तदानेन गुरुणा / यथा सौम्य अस्ति तावद्भवतः परिग्रहे कायाभिधानः पञ्चाक्षनामगवाक्षो निवासार्थमपवरकः / तत्र च कार्मणशरीरनामकमपवरकगवाक्षाभिमुखक्षयोपशमाभिधानरनं गर्भग्रहकं / तत्र च चित्ताभिधानमतितरलं वानरलौवरूपं / मयोकं / बाढं समस्तमस्ति / गुरूणोकं / यद्येवं ततो ग्रहौतेनैव तेन सर्वेण तावद्भवता प्रवजितव्यं / यतो न शक्यते तदकाण्ड एव विरहयितुं। मयोक्तं / यदाज्ञापयति नाथः / ततः प्रव्रजितोऽहं / गुरुणोतं / भद्र त्वयेदं वानरलौवरूपं सुरचितं कर्तव्यं / मयो / यदादिशति नाथः / केवलं कुतो भयमिति कथयन्तु भगवन्तः / ततोऽभिहितमनेन मुनिना / यथा सौम्य विद्यन्ते तत्र गर्भग्रहके वमतोऽस्य भूयांमः खलपद्रवकारिणो यतो भक्ष्यते घराकमिदं कषायनामकैश्चटुलमूषकैः तरलतरीक्रियते नोकषायाख्यैर्वधपट भिर्दुष्टदृश्चिकैः खाद्यते संज्ञाख्याभिः For Private and Personal Use Only