________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / कामकोपादयस्तस्य पुरुषाः परिचारकाः // घोरैर्जीवाधमर्णानां कर्माख्यैर्धनिकैः सदा / क्रियते धरणकं तत्र दुर्भाचमतिदारुणम् // मदा कलकलायन्ते लोकोद्देगविधायिनः / मत्ताः कषायनामानस्तत्र दुर्दान्तडिम्भकाः // अनेकाश्चर्यभूयिष्ठो विचित्रः सतताकुलः / नान्यो जगति तादृक्षो हट्ठमार्गों नरोत्तम // केवलं ते मया लोका यावत्सम्यङ् निरीक्षिताः / हट्टे सर्वेऽपि विज्ञातास्तावदत्यन्तदुःखिताः // अथानेन महाभाग मुनिना मम लोचने / अञ्जिते कृपया भद्र ज्ञानाञ्जनशलाकया // ततो विमलदृष्टित्वादृष्टो दूरे व्यवस्थितः / मया हट्टात्ममुत्तौण मठो नाम शिवालयः // तत्रानन्ता मया दृष्टाः सततानन्दसुन्दराः / सद्बुद्धिदृश्या भो लोका मुक्ताख्या बाधवर्जिताः // ततो मे तत्र संपन्नो हट्टमार्गे हत्तमः / वमतो भट्र निर्वेदो मठोन्माथक एव च // ततश्चायं महाभागो मुनिः प्रोकस्तदा मया / हट्टमेनं परित्यज्य मठे यामः शिवालये // यतः / नास्ति मे क्षणमप्यत्र रतिर्नाथ सुदारुणे / हट्टमार्ग बजामोऽतस्त्वया साधं शिवालये // For Private and Personal Use Only