________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तनः प्रस्तावः / 1016 महितो मया षष्ठमुनिसमीपं / वन्दितो मुनिवरः / धर्मलाभितोऽनेन / कृता प्रस्तावना / पृष्टः मोऽपि वैराग्यकारणं / मुनिनोक्र / नगरी संमृति म अत्यनादिरनन्तिका / नदीयो हट्टमार्गो मे जातो वैराग्यकारणम् // अकलङ्केन चिन्तितं / अरघट्टः पुरा यादृग् मुनिना मे निवेदितः / नूनं भो हट्टमार्गाऽपि तादृशोऽयं भविष्यति / ततः प्रोकमकलङ्कन / निवेदय महाभाग मह्यमेनं स्फुटाक्षरैः / हट्टमार्गः स मंजातो यस्ते वैराग्यकारणम् // मुनिराह महाभागो योऽयं ध्यानस्थितो मुनिः / अनेन जन्मसन्तानः स हट्टो मम दर्शितः // . विराजितः सुदीर्घाभिर्भवावपनपंक्तिभिः / भूरिभिः सुखदुःखाख्यैः स पण्यैः परिपूरितः // पाकुलैः सञ्चयोधुनः क्रयविक्रयतत्परैः। जौववाणिजकैर्नित्यं स्वार्थनिष्ठनिषेवितः // पुण्यापुण्याभिधानैश्च स्तोकोत्कृष्टविमध्यमैः / मूल्यैः पण्यानि लभ्यन्ते खानुरूपाणि तत्र भोः / नित्यं व्यवहरत्येष सदैवोहाटितापणः / अपुण्यजीवरोरैश्च भूरिभिः परिपूरितः // महामोहाभिधानोऽत्र बलाधिकृत उच्यते / For Private and Personal Use Only