________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1017 मा मोक्षमार्गमुत्सृज्य गच्छतानन्तके भवे // धर्मानुष्ठानबुड्या च यदिदं मारणादिकम् / यूयं कुरुथ तत्पापं सर्वं संसारवर्धनम् // कुशास्त्रकारमोहेन मा कुरुध्वमथेदृशम् / अहिंसाद्यात्मकं धर्म कुरुध्वं दोषसूदनम् // अथेदृशं मुनीनां ते वाक्यमाकर्ण्य पेशलम् / मूढकल्पा जनास्वर्णं प्रद्वेषं यान्ति पापिनः / / वदन्ति च ततो रुष्टा भो भोः श्रमणका वयम् / शिक्षणौया न युमाभिर्यात यात यथागताः // भोगाबिन्दथ पापिष्ठा धर्म चास्मनिषेवितम् / ततो नो वैरिका यूयं नेव्यामोऽन्तकमन्दिरम् // ईदृशोऽपौह मद्धौ यद्ययं वो न रोचते / ततोऽलं युभदौयेन धर्मेण पुरुषाधमाः // निवेदयत सद्धर्म निजेभ्यः श्रमणाधमाः / श्रात्मीयजनकेभ्यो भो न त्वस्माकं प्रयोजनम् // तदिदं मूढजन्तूनां वाक्यमाकर्ण्य माधवः / ब्रूयुः करुणया यावद्भूयो धर्मस्य लक्षणम् // तावत्ते नितरां क्रुद्धा दष्टौष्ठा रक्तलोचनाः / गाढप्रहारदानादौ प्रवर्तन्ते न संशयः // ततस्तत्तादृशं वीक्ष्य मुनयो मूढचेष्टितम् / निश्चिन्वन्ति निजे चित्ते नेते माध्याः कथंचन // ततस्ते माधवस्तेषामुपेक्षां कुर्वते यतः / 128 For Private and Personal Use Only