________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.16 उपमितिभवप्रपञ्चा कथा / कुर्महे चण्डिकादौनां वयं रुधिरतर्पणम् // गोमेधमश्वमेधं च नरमेधं तथाजकैः / कुर्मी यागं चतुर्भदं भूतमहातमर्दनम् // कुयोनिवर्तिनः सत्त्वान् निःशेषान् दुःखपीडितान् / हत्वा हत्वा वयं दुःखान्मोचयामः कृपापराः // पापा जौवमवातं मारयित्वा दिने दिने / मांमावारितमत्रं च प्रयच्छाभो यथेच्छया // इत्येवमादिभिर्धमः कृतकृत्यतया वयम् / भावत्कस्यास्य धर्मस्य न बप्तिं वत कुर्महे // तदिदं मूढकल्पानामभयानां प्रभाषितम् / आकर्ण्य मुनयो धौरा जायन्ते करुणापराः // ततस्ते तत्प्रबोधार्थमित्थमाचक्षते तदा / भो भद्रा नैव शुक्तोऽयं भवतां भवविभ्रमः // एते हि भोगा नागानां भोगा व सुदारुणाः / पर्यन्तकटुकाः पापास्तोत्रसंक्लेशवर्धनाः // नार्याऽनार्याः कृताकार्याः सर्वमायाकरण्डिकाः / विलासनृत्तमझौतविबोकाद्या विडम्बनाः // मोक्षस्तु भद्राः सततमनन्तानन्दसुन्दरः / जीवस्यात्मव्यवस्थानं नि:शेषक्लेशवर्जितः // अनुष्यभवमासाद्य तन्न युक्तं भवादृशाम् / खाद्यपेयविलासादिकौतुकेनात्मवञ्चनम् // एतेषु पक्का भोगेषु कतिचिद्दिनमाविषु For Private and Personal Use Only