________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1015 तत्तत्समीपगमनमभिधीयते। ततः कुर्वन्ति ते मद्धर्मदेशनया मोक्षगमनं प्रति तदामन्त्रणं / ततस्ते मूढकल्पा जन्तवः खल्वेवमाचक्षौरन्। यदुत भो भोः श्रमणकाः किं तेन यौभाकोनेन मोक्षेण नः प्रयोजनं भवतामप्यलमेव तत्र गमनेन / तथाहि न तत्र खाद्यं नो पेयं न विलामा न भूतयः / न दिव्यः प्रियसंयोगो न कान्ता: कमलेक्षणाः // न भाषणं मविश्रम्भं न गौतं नापि नतनम् / न हास्यं हन्त यौमाकः म मोदो ननु बन्धनम् // अत्यन्तरमणीयोऽयमस्माकं प्रतिभासते / सदा संसारविस्तारश्चित्ताहादविधायकः // यतोऽत्र सन्ति संसारे खाद्यं पेयं विभूतयः / विलासा भूषणं नार्थ: कामदाः पद्मलोचनाः // यथेष्टचेष्टाचारित्वं गीतं नृत्यं विलेपनम् / विद्यते सर्वमेवात्र संपूर्ण सुखसाधनम् // अतो विमुच्य संसारं सुखमम्भारपूरितम् / भो भोः श्रमणका यूयं न मोक्षं गन्तुमर्हथ / तदलं मोक्षवादेन संसारे सुन्दरा स्थितिः / मानयित्वा सुखं दिव्यं पश्चान्मोक्षं गमिष्यथ // यश्च सद्धर्मवादोऽयं भवतां मनसि स्थितः / अस्माकमपि मोऽस्येव किं यूयं धर्मगर्विताः // तथाहि / भूरिभिर्महिषैश्छागैः शूकरैश्च निपातितः / For Private and Personal Use Only