________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1012 उपमितिभवप्रयचा कथा / न भाषणेयः परावर्णवादो ग्रहीतव्याः परगुणाः बजनौयं निजगुणविकत्थनेन स्मर्तव्यमणीयोऽपि सुकृतं यतितव्यं परार्थे संभाषणीयः प्रथमं विशिष्टलोकः अनुमोदनौयो धार्मिकजन: न विधेयं परमर्माहट्टनं भवितव्यं सुवेषाचारैः ततो भविष्यति भवतां सर्वज्ञोपजसद्धर्मानुष्ठानयोग्यता। तत्र च रहस्यैः सद्भिः परिहर्तव्योऽकल्याणमित्रयोगः सेवितव्यानि कल्याणमित्राणि न लङ्घनौयोचितस्थितिः अपेक्षितव्यो लोकमार्गः माननौया गुरुमंहतिः भवितव्यमेतत्तन्त्रैः प्रवर्तितव्यं दानादौ कर्तव्योदारपूजा भगवतां निरूपणीयः साधुविशेषः श्रोतव्यं विधिना धर्मशास्त्र भावनौयं महायनेन अनुष्ठेयस्तदर्थी विधानेन अवलम्बनौयं धैर्य पर्यालोचनौयायतिः अवलोकनौयो स्मृत्यः भवितव्यं परलोकप्रधानैः सेवितव्यो गुरुजनः कर्तव्यं योगपट्टदर्शनं स्थापनौयं तद्रूपादि मानसे निरूपयितव्या धारणा परिहर्तव्यो विक्षेपमार्गः प्रयतितव्यं योगशुद्धौ कारयितव्यं भगवद्भुवनबिम्बादिकं लेखनीयं भुवनेशवचनं कर्तव्यो मङ्गलजपः प्रतिपत्तव्यं चतुःशरणं गाहितव्यानि दुष्कृतानि अनुमोदयितव्यं कुशलं पूजनौया मन्त्रदेवता: श्रोतव्यानि मञ्चेष्टितानि भावनौयमौदार्य वर्तितव्यमुत्तमज्ञानेन ततो भविष्यति भवतां माधुधर्मानुष्ठानभाजनता। ततः कृतबहिरन्तरङ्गमङ्गत्यागैः परदत्तभोजिभिर्भावमुनिभिः मद्भिर्भवद्भिरासेवनौया ग्रहणशिक्षा विधेया वस्तुतत्वजिज्ञासा मृगणीयः स्वपरतन्त्रवेदिना परहितनिरतेन पराशयवेदिना यथार्थाभिमानेन गुरुणा सम्यक् सम्बन्धः प्रयोकव्यो गुरुविनयः अनुष्ठेया विधिपरता कर्तव्यो मण्डलिनिषद्याक्षादौ For Private and Personal Use Only