________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1011 सर्वथाशचिनिधाने शरौरे पुगलपरिणाममात्रनिःमारेषु विषयेषु असंख्यदुःखलक्षपरिपूरिते जगति वर्तमानानामसमतां कीदृशं नाम सुखं / परमार्थतो दुःखेऽपि सुखविपर्यास एष भवतां / कर्मअनितः खल्वेष विभ्रमः कारणमनन्तभवभ्रमणस्य / ततो भो भद्राः कृच्छ्रेण प्राप्ते मनुष्यभवे मनिहितायां धर्मसामय्यां मत्यस्मदुपदेशे स्वाधीने गुणाधाने प्रकटे ज्ञानादिमोक्षमार्ग अनन्तानन्दरूपे जौवे तस्य स्वरूपलाभलक्षणे मोक्षे ज्ञानश्रद्धानुष्ठानमात्रायत्ते तल्लाभे न युक्तं भवतामौदृशमात्मवञ्चनं कर्त। तदिदं मन्मुनिवचनमाकर्ण्य ते हितज्ञतल्या भट्रकभव्यमिथ्यादृष्टयो जीवा निश्चिन्वन्ति तेषां भगवतां मन्मनौनां वत्सलतां लक्षयन्ति परिज्ञानातिरेक। ततो निवर्तयन्ति तदुपदेशनावाप्तशुभवासनाविशेषाः सन्तो धनविषयग्रद्धिप्रतिबन्धं पृच्छन्ति च विशेषतो मुनिजनं ते धर्ममार्ग दर्शयन्ति शिव्यभावं रञ्जयति गुरूनपि विनयादिगुणैः / ततः प्रसन्नइदया गुरवस्तेभ्यो ग्रहस्थावस्थोचितं माधुदशायोग्यं च प्रतिपादयन्ति धर्ममार्ग ग्राहयन्ति तदुपार्जनोपायं महायत्नेन / यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिभवद्भिस्तावदिदमादौ कर्तव्यं भवति यदुत सेवनौया दयालुता न विधेयः परपरिभवः मोकच्या कोपनता वर्जनौयो दुर्जनसंसर्गः विरहितव्यालोकवादिता अभ्यमनौयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः वारणीयः परदाराभिलाषः परिहर्तव्यो धनादिगर्वः विधेया दुःखितदुःखत्रालेच्छा पूजनौया गुरवः वन्दनौया देवसङ्घाः सन्माननीयः परिजनः पूरणीयः प्रणयिलोकः अनुवर्तनीयो मित्रवर्गः For Private and Personal Use Only