________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1010 उपमितिभवप्रपञ्चा कथा / भवमारमित्यादि / तदिदं काननादिकौतकमारमात्मचेष्टितकथनं / ततो यथा तेन चारुणा कृपापरिगतहृदयेन हितसं प्रत्यभिहितं यदुत वयस्य वञ्चितोऽसि त्वं पापिना धूर्तलोकेन मुग्धतया न जानौषे विधातुं रत्नगणदोषपरीक्षां अन्यच न युक्तं तव कत रत्नदीपमागतस्य काननादिकुहलं विप्रलम्भस्तवैष परमार्थन ततो हितजेन निश्चित्य तदीयवत्सलता लक्षितः परिज्ञानातिरेकः ततो निवर्तितं काननादिकौतुकं पृष्टश्च म चारू रत्नलक्षणं दर्शितः शिष्यभावः चाररपि रञ्जितस्तद्गुणैः निवेदितं रत्नलक्षणं ग्राहितस्तदुपार्जनोपायं हितज्ञश्चारुणा संजातो विचक्षणः परोक्षको रत्नानां ततः परिहत्य कृत्रिमरत्नानि संपन्नः सत्यरत्नग्रहणोद्यत इति तथा भट्र घनवाहन मन्मुनयोऽपि करुणापरिगतमानमास्तानेवं वदन्ती भद्रकभव्यमिथ्यादृष्टौनित्थमाचक्षते / यदुत भो भद्राः सत्यं धर्मशौला यूयं कुरुथ धर्ममात्मबुद्ध्या केवलं मुग्धतया न जानीथ तविशेषं। वञ्चिता यूयं कुधर्मशास्त्रकारैः। न खल्लु हिंस्रकर्माणि धर्मसाधनानि भवन्ति / सर्वभूतदयाप्रधानो हि भगवान् विशुद्धधर्मः। तद्विरोधीनि च यागहोमादीनि / तब युकं धर्मबुद्ध्या भवतामधर्मासेवनं / यत्पुनबूंथ यूयं यथा सुखेन वयं तिष्ठामो यतो भषयामो मांसमित्यादि तदपि मुग्धताविजृम्भितमेव भवतां हास्यप्रायं विवेकिनां / यतः सन्निहिताशेषापाये काये वलात्मु विविधरोगेषु त्वरागामिन्यां जरायां मनःशरीरमन्तापकारिषु राजाधुपद्रवेषु याथावरे यौवने सर्वव्यसनकारिणौषु सम्पत्सु मनोदाहिनौष्टवियोगे चित्तवेधुर्यकारिणि विप्रियसम्पयोगे सततमागामुके मरणे For Private and Personal Use Only