SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / नौमामुपदेशवचनामृतमुपालम्भगर्भमुपलभ्यते / योग्यकल्या देशविरता मितरा लज्जन्ते स्वपरितेन न ददति वष्टोत्तराणि न कुर्वन्ति मनोदुष्प्रणिधानं किं तर्हि प्रतिपद्यन्ते हितमिति तत्साधुवचनं आचरनि यथोकविधानेन स्वीकुर्वन्ति पारनेश्वरं महाव्रतं तिष्ठन्ति पूरयन्तो गुणरत्नैरात्मयानपात्रमिति / यथा च स चार्गतो हितज्ञाभ्यणे विहितं खस्थानगमना) तदामन्त्रणं ततो दर्शितं तस्मै हितज्ञेन स्वयमुपार्जितं तत्काचशकलादिकं निवेदितं काननादिकौतुकमारमात्मचेष्टितं तथा भद्र धनवाहन भट्रकेभ्यो भव्यमिथ्यादृष्टिभ्यः संपूर्णगुणाः सुमाधवो यदत्र सद्धर्मकथनायाभिमुखौभवन्ति तारुणा हितज्ञसमौ पगमनमभिधीयते / ततः कुर्वन्ति ते साधवस्तेषां भद्रकभव्यमिथ्यादृष्टौनां धर्मदेशनया मोक्षगमनं प्रत्यामन्त्रणं / तेऽपि च तेभ्यो दर्शयन्ति यथा वयमपि कुर्म एव धर्म यतोऽनुतिष्ठामो नित्यनानं जुङमोऽमिहोत्र दहामस्तिलममिधः प्रयच्छामो गोभूमिहिरण्यादौनि कारयामो वापीकूपतडागप्रभृतौ नि परिणयामः कन्यका इत्यादिकं काचशकलादिदर्शनं। अन्यञ्च / ते सुमाधुभ्यो निवेदयन्ति यथा भो भट्टारकाः सुखेन वयमास्महे यतो भक्षयामो मांसं पिबामो मद्यं प्रास्वादयामो विचित्रं सुरसं भोजनं रमयामो वरस्त्रियः परिदमः सुकुमारोज्चलवमनानि मानयामः पञ्चसुगन्धिकोन्मित्रं ताम्बूलं विलमामो विविधमाल्यविलेपनैः मौलयामो धननिचयं विचरामो यथेष्टचेष्टया न सहामो रिपुगन्धं उल्लासथामो निजकौति दर्शयामः स्वस्य देवरूपतां अनुभवामो मनुष्य 127 For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy