________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कुयो निगर्तातिपातहस्तावलम्बो दर्शन सम्पादनमनन्तमनःप्रमोदामां सुक्षेमाक्षेपमोक्षनिक्षेपणं चारित्रं समर्पकं निरन्तरचित्तोत्मवानां अनादिजीववस्त्रमलक्षालनमलिलं तपो दायकं निःमङ्गादिसन्दोहानामनागतकर्मकचवरनिवारकः संयमो भावको भवभ्रमणभयाभावितभूरिभावहर्षाणां / तदेवमपि जानतां भवतां भो भद्राः केयमविद्या कोऽयं मोहः केयमात्मवञ्चनता केयमात्मवैरिकता येन यूयं ध्यथ विषयेषु मुझ्यथ कलबेषु लुभ्यथ धनेषु निपथ खजनेषु हय्यथ यौवनेषु तुष्यथ निजरूपेषु पुष्यथ प्रियमङ्गतेषु रुथ्यथ हितोपदेशेषु दुष्यथ गुणेषु नण्यथ सन्मार्गात्मत्वण्यस्मादृशेषु सहायेष प्रीयथ मांसारिकसुखेषु न पुनर्ययमभ्यस्यथ ज्ञानं नानुशौलयथ दर्शनं नानुतिष्ठथ चारित्रं नाचरथ तपः न कुरुथ संयम न संपादयथ मद्भूतगुणसम्भारभाजनमात्मानमिति / एवं च तिष्ठतां भवतां भो भद्रा निरर्थकोऽयं मनुय्यभवो निष्फलमस्मादृशमन्निधानं निष्पयोजनो भवतां परिज्ञानाभिमानोऽकिंचित्करमिव भगवदर्शनासादनं। एवं हि खार्थभ्रंशः परमविशिष्यते / स च भवतामज्ञत्वमालक्षयति / न पुनश्चिरादपि विषयादिषु सन्तोषः / तत्र युक्रमेवमासितं भवादृशां / श्रतो मुञ्चत विषयप्रतिबन्धं परिहरत स्वजनस्नेहादिकं विरहयत धनभवनममत्वव्यसनं परित्यजत निःशेषं सांसारिकमलजाम्बालं ग्टहीत भागवतौं भावदीक्षां विधत्त संज्ञामादिगुणगणमञ्चयं पूरयत तेनात्मानं भवत स्वार्थसाधका यावत्मन्निहिता भवतां वयं / अन्यथास्मदुपदेशाभावे मबुद्धि विकला यूयं स्वार्थभ्रष्टा एव सर्वथा भविष्यथेति / तदिदं भगवतां सन्मु For Private and Personal Use Only