________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / मिव कुर्वाणाः कुर्वन्ति धर्मदेशनां ते तु निवेदयन्यात्मनः स्तोकगुणत्वं ततः साधवो ब्रुवते भो भद्रा मनुष्यभावे स्वाधीनं सर्वेषां सगुणार्जनं तत्किं न संपूर्णगणा जाता ययं यथा वयं ततः कथयन्ति देशविरताः संपूर्णगुणोपार्जनविघ्नभूतमात्मनो धनविषयादिषु ममत्वव्यसनं ततो यथा चारुण योग्यं प्रत्युक्तं यथा भट्र न युक्तं ते प्राप्तस्य रत्नदौपे काननादिकुहलं कर्तुं वञ्चनमिदमात्मनो महाविनः सुरत्नग्रहणस्य जानासि च वं सरत्नानां मुखहेतुतां तथाप्यनादरमेवं तेषु कुर्वाण: किमात्मनो वैरिकायसे न च चिरेणापि ते कौतुकपरिपूर्तिस्तद्वरं स्वार्थ यतितमितरथा निरर्थकं रत्नदीपागमनं ततो भद्र मुच्च वनादिकौतुकं कुरु मयि सनिहिते सुरत्नोपार्जनमन्यथा स्वार्थभ्रष्टो भविष्यसि ततोऽत्यन्तलज्जितो योग्यः प्रतिपन्नं चारुवचनमनुष्ठितं विधानेन संजातः सुरत्नानां बोहित्थभरणेन स्वार्थमाधक इति तथा भद्र घनवाहन मुनयोऽपि देशविरतानेवमाचक्षते। यथा भो भद्रा न युक्तं यमादृशामवाप्ते मनुष्यभावे जानतां जिनवचनामृतरसं लक्षयतां भवनैगुष्यमाकलयतां कायकलिलमलाविलतां वेदयतां यौवनस्य सन्ध्याभरागभङ्गरतां पश्यतां जीवितस्य घोपतप्तशकुनिगलचञ्चलता भावयतां स्वजनवर्गस्नेहादेरचिरद्युतिविलसितदृष्टनष्टतां कर्तुमौदृशं धनविषयादिममत्वव्यसनं वञ्चनमिदमात्मनो महान्तरायो ज्ञानादिमाधनस्य / जानन्ति च भद्राः। यथा परिणामदारणा विषयाः कारणं चित्तविप्लवानां तरलइदया योषितोऽभूमिः सद्भावसुखानां हेतुभूतमातरौद्रध्यानानां सुगतिमार्गप्रदीपो ज्ञानं जनक मानसाहादानां For Private and Personal Use Only