________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / हा माम माम पश्य त्वं शरेण रमणं नरः / कश्चिदेष निहन्त्युच्चैस्तदेनं ननु वारय / विमर्शनोदितं वत्स स एष मकरध्वजः / चर्यया निर्गतो रात्रौ भयेन सह लीलया // वर्तते को ममाज्ञायां को वा नेत्यत्र पत्तने / परीक्षार्थं जनोलापवेषकर्तव्यचेतसाम् // शरमाकृष्य वीर्यण तदेष रमणो ननु / अनेनैव ग्रहं तस्या वराको वत्म नौयते // तत्किं ते वारणेनास्य यदनेन पुरस्कृतः / रमणोऽनुभवत्येष तनिभालय कौतुकम् // एवं भवतु तेनोके तो गतौ गणिकाग्टहे / दृष्टा च कुन्दकलिका ग्रहदारेऽतिचर्चिता // तदभ्यर्ण विमर्शन कुञ्चिता निजनामिका / निष्ठ्यूतं धूनितं शौर्षे वालितान्यत्र कन्धरा // ततो हाहेति जल्पन्तमुदिनं तं खमातलम् / प्रकर्षः प्राह ते माम किं व्यलोकस्य कारणम् // म प्राह वसनच्छन्नां पुष्पालङ्कारभारिताम् / किमेनां निकटे त्वं नो वौक्षमेऽशुचिकोष्ठिकाम् // तदस्या दूरतः स्थित्वा देशे गन्ध विवर्जिते / वृत्तान्तो योऽत्र जायेत पश्यावस्तं निराकुलौ // निच्छिद्रा च भवेत् काचिदशचेरपि कोष्ठिका / दूयं तु नवभिरैः क्षरत्येवातिमुत्कला // For Private and Personal Use Only