________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / समुद्रदत्तस्य सुता वास्तव्योऽत्रैव पत्तने / अयं हि रमणो नाम तरुणो भोगतत्परः // बालकालात्ममारभ्य गणिकाव्यसने रतः / अयं च रमणे भद्र न चेतयति किंचन // ग्रहं समुद्रदत्तस्य रत्नसम्भारपूरितम् / यदामौदिभवैः पूर्वं विचिप्तधनदालयम् / तदनेन दिनैः स्तौकैर्गणिकारतबुद्धिना। अनाशककुटेस्तुल्यं विहितं पापकर्मणा // अधुना निर्धनो दोनः परकर्मकरो लघुः / जातोऽयमीदृशः पापो दुःखाता निजकर्मणा // परकर्मकरत्वेन कतिचिद्रूपकानयम् / अद्यागतः समासाद्य हट्टे व्यसननाटितः / / ततः परं पुनर्वत्म यदनेन विचेष्टितम् / तदृष्टमेव निःशेषं त्वया किं तत्र कथ्यताम् // अस्ति चात्र पुरे ख्याता गणिका मदनमञ्जरौ / तस्याश्च कुन्दकलिका दुहिता यौवनोइटा // तस्थामामतचित्तेन नाशिता धनसञ्चयः / अनेन धनहीनच गेहानिःमारितस्तया // ततोऽद्य रूपकानेष कियताऽप्यतिनिष्ठया / संप्राप्य प्रस्थितस्तस्याः सदने रतकाम्यया // अत्रान्तरे मणौरमाकृष्टशरदारुणम् / नरं सानुचरं वीक्ष्य प्रकर्षः प्राह मातलम् // For Private and Personal Use Only