________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / यदत्र परमार्थोऽयं मूर्खागौं धने सति / न कार्यों दानभोगौ तु कर्तव्यौ तत्त्ववेदिना // यस्तु नैवं करोटुच्चैः स वराको निरर्थकम् / अमूल्यकः कर्मकरः केवलं, परिताम्यति // स्तेयदुर्नयगन्धोऽपि वर्जनौयश्च जानता / अन्यथा जायते कष्टं यथास्य वणिजो महत् // ___ यावत्स कथयत्येवं बुद्धिसूनोः स्वमातुलः / अन्यस्तावत्समापन्नो वृत्तान्तस्तं निबोधत // दृष्टस्ताभ्यां युवा कश्चिदवतीण वणिक्पथे। दुर्बलो मलिनः क्षामा जरचीवरधारकः // श्रापणे ग्रन्थिमुन्मोच्य रूपकैस्तेन मोदकाः / स्रजः पर्णनि गन्धाश्च क्रौतं वस्त्रयुगं तथा // गत्वा च निकटे वाप्यां भक्षितं तेन भोजनम् / समानितं च ताम्बूलं स्नातः संपूरितेादरः // बद्धश्चामोटकः पुष्यैः सगन्धैर्वामितं वपुः / ततः परिहिते वस्त्र प्रस्थितो राजलौलया // निरीक्षतेऽभिमानेन निजदेहं पुनः पुनः / समारयति चामोटं गन्धमाघ्राय मोदते // प्रकर्षणेदितं माम क एष तरुणस्तथा / क प्रस्थितः किमर्थं वा विकारैरिति भज्यते // विमर्श नादितं वत्स मरतीयं कथानिका / लेशोद्देशन ते किंचित् कथ्यते तनिवेध मे // For Private and Personal Use Only