________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / विमर्शनोदितं तात संभवत्येव तादृशम् / कारणं विरलानां भोः केवलं तेन मौलकः // करोति वर्धनस्थैर्य अजातं जनयेद्धनम् / अत्यन्तदुर्लभं भद्र पुण्यं पुण्यानुबन्धि यत् // यच्च / दया भूतेषु वैराग्यं विधिवगुरुपूजनम् / विशुद्धा मौलवृत्तिश्च पुण्यं पुण्यानुबन्ध्यदः // अथवा / परोपतापविरतिः परानुग्रह एव च / स्वचित्तदमनं चैव पुण्यं पुण्यानुबन्ध्यदः // एतच्चान्यभवे धन्यै यरूपातमिहापि वा / स्थिरमेव धनं तेषां सुमेरोः शिखरं यथा // अन्यच्च ते महात्मानम्तत्पुण्यपरिढौकितम् / बाह्यं तुच्छं मलप्रायं विज्ञाय क्षणगत्वरम् // योजयन्ति शुभे स्थाने स्वयं च परिभुजते / न च तत्र धने मूळमाचरन्ति महाधियः / / ततश्च तद्धनं तेषां सत्पुण्यावाप्तजन्मनाम् / इत्थं विशुद्धबुद्धौनां जायते शुभकारणम् // निन्द्ये बाह्ये महानर्थकारणे मूर्छिता धने / शून्यास्ते दानभोगाभ्यां ये पुनः क्षुद्रजन्तवः // इहैव चित्तमन्तापं घोरानर्थपरंपराम् / यत्ते लभन्ते पापिष्ठास्तत्र किं भद्र कौतुकम् // 78 For Private and Personal Use Only