________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। अन्यच्चेदं धनं वत्म मेघजालमिवातुलम् / हतं प्रचण्डवातेन यदा याति कथंचन // तदा नालोकयति रूपं न विगणयति परिचयं न निरूपयति कुलौनतां नानुवर्तयति कुलक्रमं नाकलयति शीलं नापेक्षते पाण्डित्यं नालोचयति सौन्दर्य नावरुध्यते धर्मपरतां नाट्रियते दानव्यसनितां न विचारयति विशेषज्ञतां न लक्षयति सदाचारपरायणतां न परिपालयति चिरस्नेहभावं नोररौकरोति सत्त्वसारतां न प्रमाणयति शरीरलक्षणम् / किं तर्हि गन्धर्वनगराकारे पश्यतामेव देहिनाम् / तद्धनं क्षणमात्रेण क्वापि न ज्ञायते गतम् // पार्जितं बहुभिः क्लेशः पालितं जीवितं यथा / नष्टं तु यादृङ् नृत्यत्सु नटेवपि तदौक्षितम् // तथाप्यमौ महामोहनिहताः क्षुद्रजन्तवः / ईदृशेऽपि धने भद्र चिन्ताबद्धं वितन्वते / / अलीकधनगण विहलोभूतमानमाः। विकारकोटीः कुर्वन्ति यथैवैष महेश्वरः // तदौदृशो धनस्येह पर्यन्तस्तात जन्मनि / परलोके पुनर्घारा धनाढुःखपरंपरा // प्रकर्षणोदितं माम येन स्थानिश्चलं धनम् / तथा शुद्धविपाकं च स्यात् कल्याणनिबन्धनम् // तत्तादृशं जगत्यत्र किमस्ति बत कारणम् / किं वा न संभवत्येव तदिदं मे निवेदय // For Private and Personal Use Only