SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1005 कृतं किंचित्तद्ग्रहणाथ वाणिज्यं केवलं संजातमस्य काननादिदर्शनव्यसनं तत्परायत्तेन गमितोऽनर्थको बहुः कालो मौलितानि कालेन भूयमा कियन्यपि रत्नकानि न विहितो विशिष्टरत्नमंचय इति तथा भद्र धनवाहन भव्यतया सुन्दरतरा जीवाः संप्राप्य मनुष्यजन्म लघुकर्मतया जानन्ति गणागुणपरीक्षणं कुर्वन्ति सर्वज्ञदर्शनमवाप्य श्रावकोचितं कियदपि सगुणग्रहणवाणिज्यं केवलं दुर्जयवेन लोभस्य चटुलतयेन्द्रियग्रामस्य संजायते तेषां धनविषयादिषु ममत्वव्यमनं तत्परायत्ताश्च ते गमयन्ति निरर्थकं भूयांसं कालं तथापि मौलयन्ति ते भूयमा कालेन श्रावकधर्मोचितानि कियन्यपि गुणरत्नकानि न विदधति माधुधर्मसाध्यं विशिष्टगुणरत्नमञ्चयमिति / यथा च तेन हितज्ञेन प्राप्तेनापि रत्नदीपे विज्ञातं स्वयं रत्नपरीक्षणं धारिता परोपदेशयोग्यता कृतं विहारारामादिषु महत्तरं कौतुकं न विहितं सरत्नग्रहणं न लक्षितास्ते वञ्चका धूर्तलोकाः ग्रहौतानि चिकिचिकायमानानि काचशकलादीनि जनिता तेषु सुन्दराणौति बुद्धिः वञ्चितश्वारूपदेशात्पूर्वमात्मेति तथा भद्र धनवाहन भव्यतया सुन्दरा जौवाः समासाद्य मनुष्यभावं मनाग्गुरुकर्मतया न विजानन्ति स्वयं कर्तुं धर्मगुणदोषपरीक्षणं धारयन्ति परोपदेशयोग्यतां कुर्वन्ति विषयधनादिषु महत्तरं प्रतिबन्धं न विदधति सर्वज्ञप्रणौतमद्धोपार्जनं न लक्षयन्ति कुतौर्थिकवञ्चकतां ग्टक्षन्ति प्रशमदयादमादिमाररहितानि दम्भप्रधानतया बहिश्चिकिचिकायमानकृषिमरत्नतल्यानि कुधर्मानुष्ठा For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy