________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.00 उपमितिभवप्रपञ्चा कथा / रत्नोपार्जनवेषेण रत्नदीपमुपेयुषः / / न युज्यते च ते काँ काननादिकुढ़हलम् // तदाकर्ण्य वचारोहितज्ञेन विचिन्तितम् / अहो वत्सलता चारोरहो वचनकौशलम् // जानात्ययं महाभागः सर्वं यन्मे हिताहितम् / तदेनमेव पृच्छामि यत्कर्तव्यं मयाधूना // ततः प्रोक्तो हितज्ञेन स चारुमित्रवत्मप्तः / नाधुनाहं करिष्यामि काननादिकुतूहलम् // रत्नानां गुणदोषाश्च निवेद्यन्तां त्वयाधुना / काचादिपरिहारेण येन तान्यहमाददे // ततस्वदुपदेशेन भृत्वा बोहित्थमञ्जमा / त्वया माधैं गमिष्यामि प्रतीक्षस्व नरोत्तम // चारुणा चिन्तितं योग्यो यथा जातो यथार्थकः / हितज्ञोऽपि तथा नूनं गुणनिष्पन्न नामकः / ततो निवेदितास्तेन सर्व रत्नगुणगुणाः / ग्राहितच प्रयत्नेन हितज्ञस्तदुपार्जनम् // ततश्वारूपदेशेन हिला सवें कुबहलम् / काचादिपरिहारेण कुर्वन् मद्रनसङ्ग्रहम् // ततः प्रभृति संजातो हितज्ञोऽपि विचक्षणः / खयं परीक्षकस्तेषां रत्नानामर्जने रतः // अथ चारुगतः पार्श्व तस्य मूढस्य मादरम् / सोऽप्युकोऽहं ब्रजिष्यामि मित्र किं वर्तते तव // For Private and Personal Use Only