________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततस्तद्ग्रहणोद्युको धूर्तलोकेन वञ्चितः // रत्नदीपेऽपि संप्राप्तः संजायेताकृतार्थकः / मूढस्तु न विजानौते स्वयं रत्नपरीक्षणम् / कत नापि परेणोक्त मोहादेष प्रपद्यते // पद्मखण्डवनोद्यानचित्रदेवकुलादिषु / तथास्य भद्र मूढस्य विद्यतेऽत्यन्तकौतुकम् // ततश्च / म बेष्टि सत्यरत्नानि हिण्डते काननादिषु / ग्टहाति धूर्तहस्ताच्च शङ्खकाचकपर्दकान् / अथ संभृतबोहित्यः स्वस्थानगमनेच्छया / किं वर्तते मदीयानां मित्राणामिति चिन्तया / म चारुस्तस्य योग्यस्य तदा मूलमुपागतः / उक्त चाहं गमिष्यामि मित्र किं वर्तते तव // योग्यः प्राह न मेऽद्यापि. बोहित्थं बत पूर्यते / स्तोकान्येवार्जितानौह मया रत्नानि कानिचित् // चारुणा भिहितं मित्र किं पुनर्महदन्तरम् / ततो योग्येन कथितं सर्वमात्मीयचेष्टितम् // चारुणोकं न युक्त ते काननादिकुबहलात् / अनादानेन रत्नानामात्मवञ्चनमौदृशम् // जानौषे तात रत्नानां त्वमेषां सुखहेतुताम् / तथाप्यनादरं कुर्वनात्मनो वैरिकायसे // चिरादपि न सन्तोषो भद्र ते काननादिषु / For Private and Personal Use Only