________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। ततो भूयोऽपि संसारे दुःखग्रस्तो भविष्यसि || नतः श्रुत्वा गुरोर्वाक्यं प्रव्रज्या पारमेश्वरी। ग्टहीतानेन मुनिना सस्क्रिया च प्रसेविता / तत्कर्मभोजनाजौर्ण जरयष तिष्ठति / मुनिनेदं ममाख्यातं भद्र वैराग्यकारणम् // किं च। न केवलमयं माधुरनाजीर्णन बाधितः / वयं च बाधितास्तेन संसारे घनवाइन // ततः संप्राप्य मानुष्यमावयोरपि बुध्यते / दौराविधानतः क कर्माबाजीर्णशोधनम् // अहं तु पापभारेण भूरिणाच्छादितस्तदा / आकलङ्क वचो मोहादवाजीगणमौदृशम् // अथैवं भाषमाणोऽसौ मया मार्धमुदारधीः / अकलङ्को गतः साधोः पञ्चमस्यांहिसन्निधौ / ततः प्रणम्य तं माधुं श्रुत्वा तद्धर्मदेशनाम् / प्रस्तावे प्रश्रितः सोऽपि तेन वैराग्यकारणम् // मुनिराह ममाख्यातं सूरिणैकं कथानकम् / तदेव मम संजातं भद्र वैराग्यकारणम् // प्रकलङ्कनो। यत्तत्ते नाथ संपन्नं तदा वैराग्यकारणम् / तदेवानुग्रहं कृत्वा कथ्यता मे कथानकम् // मुनिनोकं / आकर्णय। For Private and Personal Use Only