________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमिविभवप्रपञ्चा कथा / ततो मे छात्रसंसर्गादुन्मादोऽप्यभवत्तदा / मोऽप्यनेन महायवादपनीतो महात्मना // तदेवं बोद्धव्यं / यदुत आभिग्रहिकमिथ्यात्वे विधायाबुधबोधनम् / महाघस्मरकाकारे नाशिते गुरुणास्य भोः / ततस्तौर्थिकसम्पर्कानातमुन्मादमन्निभम् / भाभिग्रहिकमिथ्यात्वं गरुणा तदपि क्षतम् // ततश्चट्टमठाकारः सम्यग्भावस्थितस्य भोः / सर्वः संसारविस्तारो गुरुणस्य प्रकाशितः // दृष्टास्ततोऽमुना जीवाश्चट्टा व पुरोदिताः / उन्मत्ताः सन्निपातार्ताः कर्मभोजनदोषतः / / गाढं दुःखभराकान्तान् कूजतो घूर्णमानकान्। प्रलापिनश्च तान् दृष्या जातमस्य महाभयम् // ततोऽभिहितो निजगुसरनेन मुनिना / यदुत चतुर्गतिकसंसारे खयामी दर्शिताः स्फुटम् / ममोडेगकरा नाथ दुःखिताः सर्वजन्तवः // गुरुणोक्त। यादृशा दुःखसन्दोहग्रस्तास्त्राणविवर्जिताः / दृश्यन्तेऽमी तथा पूर्वमहद्र भवानपि // विद्यते च तवाद्यापि कर्माजीर्ण शरीरके / विधेहि त्वमतस्तस्य जरणार्थं मम क्रियाम् // अथ त्वं मामिकामेनां सस्क्रियां न करिष्यसि For Private and Personal Use Only