________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 163 एत एव सुसाधूनां निन्दाकोशनताडनम् / पाचरन्तोऽपि न क्रोधकारणं भवजन्तवः // तथाहि। ये कर्मसन्निपातेन वराका गाढपीडिताः / मिथ्यात्वोन्मादसंतप्ताः स्वपापविषघूर्णिताः // सदा दुःखभराकान्ता नष्टमद्धर्मचेतनाः / परायत्ताः प्रकुर्वन्ति निन्दाक्रोशनताडनम् // तेषामुपरि कः कोपं विदधीत विचक्षणः / क्षते हि क्षारनिक्षेपं कुर्वन्ति न छपापराः // किं च। न केवलं कपास्थानं कर्मवेष्टितजन्तवः / विवेकिनां भवोद्देगकारणं च भवन्ति ते // तथाहि। एतानेवंविधान् दृष्ट्वा जौवान् संसारचारिणः / उन्मत्तमत्तसङ्कामान् भावतः मन्त्रिपन्नकान् / खब्धे मनुष्यभावेऽपि जिनेन्द्रमतवेदकः / सकर्णकोऽत्र को नाम रज्येत भवचारके // ततोऽयं गुरुणा भद्र करणाहतचेतमा / खकर्ममविपाता” बोधितो मुनिपुङ्गवः // स एव हि महावैद्यो येनायं छात्रमन्निभः / माधुः स्वस्थौलतो भद्र वचनामृतभेषजैः // यच्चोतं। 125 For Private and Personal Use Only