________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 662 उपमितिभवप्रपश्चा कथा / चेष्टाचारितोपदेशेन वलान्तीव नास्त्यात्मा नास्ति परलोको नास्ति पुण्यं नास्ति पापमित्यादि भाषमाणाः रुदन्तीव सर्वज्ञमत निराक्रियमाणा गायन्ति च निजतर्कदण्डोलकान् घोषयन्तः। एवं च स्थिते। इति नर्तनवलानगानपरा हसनप्रविलापमरोदनकाः / ननु भद्र भवन्ति जिनेन्द्रमताद्विपरौतदृशो यहरूपधराः // अन्यच्च / सर्वेऽमी जन्तवः कर्मविषवेगेन घारिताः / विनष्टधर्मसंज्ञाश्च वर्तन्ते नात्र संशयः // यच्चोतं मुनिनानेन यथायं मुनिपुङ्गवः / मगुरुवैद्यके शास्त्रे कृतगाढपरिश्रमः // कृपापरीतचित्तेन मनिपातामुदारुणात् / मोचितोऽहं ततोऽनेन मुनिना निजभेषजैः // घटमानमिदं भद्र यतोऽमी मुनिपुङ्गवाः / सिद्धान्त वैद्यकाकारे भवन्त्येव कृतश्रमाः // ततः समस्तजन्तूनां संसारोदरचारिणम् / प्रत्येकं लक्षयन्येते स्वरूपं मुनिसत्तमाः / ततश्च / कर्मभोजनजन्येन सन्निपातेन पौडितम् / तं जीवलोकमालोक्य भवन्ति करुणापराः // चिन्तयन्ति च ते धन्याः कथमेते वराककाः / संसारक्लेश निर्मुक्का भविष्यन्तेऽत्र देहिनः / / For Private and Personal Use Only