________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा। परस्परमसंबद्धवाश्चट्टप्रायाः प्रकीर्तिताः // तथाहि। नामौषां विद्यते माता न पिता न च बान्धवाः / न धनं परमार्थन छिनच्छोरा हि जन्तवः / तेषां च जीवचट्टानां संसारमठवर्तिनाम् / श्रागच्छत्येव तद्भक बन्धहेतकुटुम्बकम् // विचित्रास्तत्र विद्यन्ते भूयासो बन्धहेतवः / तेषां संग्रहकाः पञ्च तत्त मानुषपञ्चकम् // यतः। प्रमादो योगमिथ्यात्वे कषायाविरती तथा / एत एव हि जन्तूनां पञ्च बन्धस्य हेतवः // अनादिमोहसामर्थ्यानातौदं हितवत्मलम् / मदैव जौवचट्टानां बन्धहेतुकुटुम्बकम् // परातिरूपमेतच वर्तते भद्र देहिनाम् / तथाप्यस्य न जानन्ति स्वरूपं मन्दबुद्धयः // निवर्तयति तत्कर्म छात्रभोजनमन्निभम् / विचित्रं सरसं जीवचट्टलौल्यविधायकम् // तन्महामोहमन्त्राढ्यं ज्ञानावरणयौगिकम् / बन्ध हेतुकुटुम्बेन ढौकितं कर्मभोजनम् // जीवच्छात्राः समासाद्य मोहादत्यन्तलोलुपाः / अात्मानं पूरयन्युच्चस्ते न जानन्ति चायतिम् // ततश्च तद्विपाकेन यदज्ञानं सुदारुणम् / For Private and Personal Use Only