________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / उन्मत्तं सन्निपातार्थ चट्टवृन्दमदर्शयत् // दृष्टाश्च ते मया छात्राः कूजन्तो घूर्णमानकाः / प्रलापिन: सुदुःखार्ता गाढं जातं च मे भयम् // मुनिनोकं / भद्र भोजनदोषेण त्वमप्येवंविधोऽभवः / विद्यते किंचिदद्यापि तवाजौर्ण भरौरके // ततो मदुपदिष्टं चेत्त्वं क्रियां न करिष्यसि / भूयोऽप्येवंविधो भद्र दुःखग्रस्तो भविष्यसि // ततः प्रत्ययसम्पत्तेर्भयाच मुनिनोदिता / ग्टहीतेयं मया दीक्षा भोजनाजीर्णशोधनी // अधुना तु। यां यामुपदिशत्येष क्रियां मे मुनिपुङ्गवः / तां तामहं करोम्युच्चैरिदं वैराग्यकारणम् // ततोऽकलङ्कस्तच्छ्रुत्वा प्रौतिविस्फारितेक्षणः / वन्दित्वा तं मुनिं भूयः प्रवृत्तोऽन्यं मुनि प्रति // मयो / न विज्ञातं मयाद्यापि वयस्य मुनिभाषितम् / सम्यगेतदतो व्यक्तं मामाख्यातुमर्हसि // अकलङ्कनो। अनेनापि मुनीन्द्रेण संसारो धनवाहन / दृष्टश्चमठाकारः स चेत्थं मे निवेदितः // अयःशलाकासकाशा नानारूपाच जन्तवः / For Private and Personal Use Only