________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। श्रापानके मया सौम्य मदिरोड्धान्तचेतसः // नास्ति तेषामकर्तव्यं बिभ्रतां पशुरूपताम् / पाराटीस्तेऽपि मुञ्चन्ति गच्छन्ति जननीमपि // धर्माधर्म न जानन्ति सर्वकार्याणि कुर्वते / अव्यक्रघोषास्तिष्ठन्ति लोलमाना महौतले // केचिदुत्नुत्य गच्छन्ति मदिराधा विहायसा / केचिज निमन्जन्ति नितरां मदनिर्भराः // अन्यच्च / तेऽपि कुर्वन्ति दुर्मद्यं युध्यन्ते च परस्परम् / महन्ते तौवदुःखानि मद्यं सर्वापदां पदम् // तथान्ये तत्र विद्यन्ते संख्यातीता मनुष्यकाः / ते पुनर्द्विविधा ज्ञेया गाढमत्तास्तथेतरे // अत्र ये गाढमत्तास्ते लोलमाना भुवस्तले / वान्तं पित्तं शकृन्मूत्रं भक्षयन्ति वराककाः // इतरे भद्र संख्येयास्ते पुनर्मदिरातराः / युध्यन्ते ब वरूगन्ते नृत्यन्युअर्हसन्ति च // गायन्ति बहु भाषन्ते पर्यटन्ति निरर्थकम् / लठन्ति भयो धावन्ति विलासोलासतत्पराः // मलाविलानि जाम्बालश्लेभपूर्णनि योषिताम् / चुम्बन्ति वक्त्रनेत्राणि पाचरन्यसमञ्जसम् // अनेकविब्बोकपरा मातापित्रादिमारणम् / अनार्यकार्यचौर्या दि सर्व ते कुर्वते नराः // For Private and Personal Use Only