________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा गृह्यन्ते राजपुरुषैः महन्ते तीनवेदनाः / मद्यान्नैव विरज्यन्ते मार्यमाणा अपि स्फुटम् // अन्ये पुनरसंख्याताश्चतईन्दव्यवस्थिताः / लोकाः सन्ति मदानाता: सदा कलकलप्रियाः // वेणवीणाकलं गौतं नाटकप्रेक्षणनि च / विलासास्वर्यनिर्धाषा नोपशाम्यन्ति तत्पुरः // तेऽपि नृत्यन्ति वल्गन्ते हसन्युच्चै रुदन्ति च / साधं तेऽप्यात्मयोषाभिः कुर्वन्यात्मविडम्बनम् // किंच। मदिरामददोषेण शोकेगिर्वविहलाः / चतुष्टयेऽपि ते लोकाः सदुःखाः सुखमानिनः // संख्याताः पुनरन्येऽत्र मन्यापानकवर्तिनः / ये नो पिबन्ति तन्मद्यं मध्यस्थाः परमासते // ततस्ते तेन लोकेन सततं मद्यपायिना / अपिबन्तोऽभिधीयन्ते ब्राह्मणा इत्यसूयया // तथा / तस्मादापानकादन्ये बहिर्भूता महाधियः / अनन्ता भद्र विद्यन्ते लोकास्ते मदवर्जिताः // पापानकं हि पश्यन्तस्तादृशं ते विसंस्थलम् / तस्मान्मुकाः प्रमोदन्ते निर्बाधाः मततोत्सवाः // इतश्च / For Private and Personal Use Only