________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / न च संव्यवहारं ते कंचित्कुर्वन्ति लौकिकम् / मृतमूर्छितरूपेण सदा तिष्ठन्ति केवलम् // अनन्ताश्चापरे लोकाः सद्रपाकारधारकाः / किं तु ते लोककार्याणि विदधत्यन्तरान्तरा // तथान्ये तादृशा एव मदिरामदपूर्णिताः / असंख्यास्तत्र विद्यन्ते नरा भोः पार्थिवादयः // अन्ये पुनरसंख्याता निर्भरं मद्यपायिनः / न जिन्ति न पश्यन्ति नापि श्टण्वन्ति किंचन / लुठन्तः केवलं भूमावाराटौर्मुञ्चमानकाः / लिहन्ति जिहया किंचिन्मदेन इतमानमाः // तथापरे पुनस्तत्र लोका जिघ्रन्ति किंचन / न टण्वन्ति न पश्यन्ति तेऽप्यसंख्याः प्रकीर्तिताः // अन्ये तु लोचनोन्मेषात्पश्यन्तोऽपि पुरःस्थितम् / नाकर्णयन्त्यसंख्याता मदापूर्णितचेतनाः // संख्यातीताः पुनर्भट्र लोकास्तत्रापरे मया / मदिरामददोषेण लक्षिताः शून्यमानसाः // अन्ये पुनरमंख्याता दृष्टाः प्रस्पष्टचेतनाः / केवलं तेषु दुर्मद्यं सदाकालमवस्थितम् // ततश्चैते विद्यन्ते भद्र भिद्यन्ते पाश्यन्ते रुष्टवैरिकैः / परस्परमदापाताः कुर्वन्ते तोत्रवेदनाः // असंख्याः पुनरन्येऽपि लोकास्तत्र विलोकिताः / For Private and Personal Use Only