________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / यथास्थितं तदापानं को हि वर्णयितुं चमः // तथापि लेशतः किंचित्तल्वरूपं नरोत्तम / पुरस्ते वर्णयिष्यामि तत्सम्यगवधारय / तद्यथा। बहुभेददरामवतुष्टजनं वरभाजनराजि विचित्रसुरम् / शितिनौरजरजितमचषकं जनमोदनकारणमत्सरकम् // मदिरामदघूर्णितर्वजनं बहुलामविलासविकासकरम् / लमदुद्भटबोलविगानपरं कृततालमझारवरामशतम् // अन्यच्च। एवं प्रौढमनोरमकान्तजनाढ्यं गाढमदोद्धरयोषिदुपेतम् / श्रादिनिवेशविहीनमनन्तं लोकनभोभिधभूमिनिविष्टम् // वादितमदलकोटिसकांस्यं वैणिकनादविवर्धिततोषम् // वंशविरावममुद्धतवो, वोविघोषितगोत्रमहस्रम् // च। नर्तनगानविलासनपानैः खादनदानविभूषणमानैः / संततभावरमैः समुपेतं लोकचमत्कतिकारणमेतत् // तदेवं मर्वसामग्रौयुकं दर्शित विभ्रमम् / श्रापानकं मया भद्र तच नित्यं निषेवितम् // लोके नास्ति तदाश्चर्य नापि तत्संविधानकम् / यत्तत्रापानके सौम्य न मया प्रविलोकितम् // अनन्तास्तत्र विद्यन्ते ये लोका मदघर्णिताः / न चेष्टन्त न भाषन्ते चिन्तयन्ति न किंचन // For Private and Personal Use Only