________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17. उपमितिभवप्रपचा कथा / उत्साहिताश्च ते तेन तीर्थचन्मन्त्रवादिना // ततः केचिन्महासत्त्वा भव्याः कल्याणभागिनः / श्रुत्वा भगवतो वाक्यं स्थितास्तत्तीर्थमण्डले // ते केवलमतिस्तोका यतस्ते भवचारिणम् / अनन्तभागे वर्तन्ते ते च मुक्काः प्रदीपनात् // अन्ये पुनर्महामूढा रागद्वेषाभिदौपितम् / विध्यापयन्ति विषयैस्तत्मसारप्रदीपनम् // बद्धाः पुत्रकलत्रादौ कुर्वन्ति धनसञ्चयम् / तदिदं दणकाष्ठानां भारैर्गाढं विवर्धनम् // तथा / मायालोभमदक्रोधान् कुर्वन्ति सततं जनाः। स एष छतकुम्भाना प्रक्षेपस्तस्य वर्धकः // तौर्यमण्डलमध्यस्थैर्न तिष्ठन्ति निवारिताः / मापि प्रशमतोयेन तत्ते विध्यापयन्यहो // प्रवेशं च न कुर्वन्ति तत्र सत्तीर्थमण्डले / नाकर्णयन्ति तदाक्यमुपहामादि कुर्वते // केचिदेव प्रबुध्यन्ते यथायं मुनिसत्तमः / प्रबुद्धो वचनात्तेषां प्रविष्टस्तीर्थमण्डले // दृष्टाश्चानेन ते लोकाः संसारोदरचारिणः / रागद्वेषाग्मिनात्यन्तं दह्यमानाः सुविकलाः // अशुद्धवाध्यवसायाख्यः पवनः प्रेरयत्यलम् / तत्र लोकोदरगामे तं रागद्वेषपावकम् // For Private and Personal Use Only